वाचस्पत्यम्
विष्टप || न० विश—कपन् तुट् च । भुवने अमर ।
शब्दकल्पद्रुमः
विष्टपं || क्ली (“विटपविष्टपविशिपोलपाः ।” इत्यु- णादिसूत्रे पिष्टपस्थाने विष्टपपाठेन विशधातोः कपन्प्रत्ययेन साधुः इति केचित् ।)
भुवनम् । इत्यमरः ॥ पिष्टपं पिष्टपः । इति तट्टीकायां रूपद्वयम् ॥ (यथा, रघुः । ११ । १९ । “बाणभिन्नहृदया निपेतुषी सा स्वकाननभुवं न केवलाम् । विष्टपत्रयपराजयस्थिरां रावणश्रियमपि व्यकम्पयत् ॥”)