वाचस्पत्यम्
विष्टि || स्त्री विष—क्तिन् क्तिच् वा । वेतनं विना भारादिव- हनजन्ये १ क्लेशे अमरः । २ वेतने ३ कर्मणि ४ वर्षणे ५ तिर्थ्यर्द्धात्मककरणमध्ये सप्तमे करणे विश्वः । भद्रशब्दे ४६३७ पृ० दृश्यम् । ६ प्रेषणे हेमच० । ७ कर्मकरे भूत्ये ८ वेतनं विना कर्मकरे च त्रि० मेदि० ।
शब्दकल्पद्रुमः
विष्टिः || त्रि (विष् + क्तिच् ।)
कर्म्मकरः । इति मेदिनी । टे, २९ ॥
शब्दकल्पद्रुमः
विष्टिः || स्त्री (विष + क्तिन् ।)
वेतनं विना हठा- द्भारोद्वहनादिक्लेशः । वेगार इति ख्यातः । तत्पर्य्यायः । आजूः २ । इत्यमरः ॥ हठाद- भृतिकः क्लेशो विजातरूपो विष्टिरिति भट्ट- स्वामी ॥ द्वे वेतनमन्तरेण कर्म्मकरणे कर्म्म- कारिणि चेत्यन्ये । त्रिषु कर्म्मकरे विष्टिः स्त्रिया- मभृतिकर्म्मणीति रुद्रः । इति भरतः ॥ * ॥
(यथा, रामायणे । २ । ८२ । २० । “विष्टिकर्म्मान्तिकाः सर्व्वे मार्गशोधक- रक्षकाः ॥”)
वेतनम् । कर्म्म । इति मेदिनी । टे, २९ ॥ (यथा, भागवते, । ७ । ८ । ५५ । “वयमीशकिन्नरगणास्तवानुगा दितिजेन विष्टिममुनानुकारिताः ॥”)
भद्रा । वर्षणम् । इति विश्वः ॥ प्रेषणम् । इति हेमचन्द्रः ॥ सा च भद्रा ववाद्येकादशकरणा- न्तर्गतसप्तमकरणं पञ्जिकायां तस्या अङ्कं शून्यम् । यथा, —
“ववबालवकौलवतैतिल गरबणिजाः सविष्टयः सप्त । शकुनिचतुष्पन्नागाः किन्तुघ्नश्च ध्रुवाणि करणानि ॥ शुक्लादितिथिशेषार्द्धात् पञ्चमे तत्तुरीयके । आद्यन्तार्द्धात् क्रमेण स्युरष्टावृत्त्या ववादयः ॥ एकादश्याश्चतुर्थ्याश्च शोषार्द्धे शुक्लपक्षके । अष्टमीपौर्णमास्योश्च पूर्ब्बार्द्धे विष्टिरीरिता ॥ कृष्णपक्षे तृतीयाया दशम्याश्च परार्द्धतः । सप्तम्याश्च चतुर्द्दश्याः पूर्ब्बार्द्धे विष्टिसम्भवः ॥ विहाय विषरौद्राणि विष्टिं सर्व्वत्र वर्ज्जयेत् । विष्टिशेषे त्रिदण्डे हि पुच्छे कार्य्यं जयावहम् ॥” कर्म्मप्रकाशे । “नाड्यस्त पञ्च वदनं गलकस्तथैका वक्षो दशैकसहिता नियतं चतस्रः । नाभिः कटिः षडथ पुच्छलता च तिस्रो विष्टेर्ध्रवं निगदितोऽङ्गविभाग एषः ॥ मुखे कार्य्यध्वस्तिर्भवति मरणं चाथ गलके धनग्लानिर्वक्षस्यथ कटितटे बुद्धिविलयः । कलिर्नाभीदेशे विजयमथ पुच्छे च जगदुः शरीरे भद्रायाः पृथगिति फलं पूर्ब्बमुनयः ॥ मनुवसुमुनितिथियुगदश- शिवगुणसंख्यासु तिथिषु पूर्ब्बाग्न्योः । १४ । ८ । ७ । १५ । ४ । १० । ११ । ३ । आयाति विष्टिरेषा पृष्ठे शुभदा पुरस्त्व- शुभदा ॥” पूर्ब्बाग्न्योः पूर्ब्बाग्न्यादिदिङ्मुखी भवति इत्यर्थः ॥ “एकेन हीना द्विगुणा तिथिस्तु सप्तावशिष्टं करणं ववादि । पूर्ब्बे परेऽप्येवमयं विशेषो द्विसंगुणा चन्द्रविवर्ज्जिता च ॥ किन्तुध्नसंज्ञं करणं प्रदिष्ट- मादेस्तिथेरादिदले सदैव । उपान्त्यशेषे शकुनिस्तु दर्शे पूर्ब्बे चतुष्पादपरे च नागः ॥ इन्द्रकमलजचित्रार्य्यमभूश्रियः सयमा ववादेः । कलिवृषफणिमारुताः पतयः शकुन्यादेः ॥” ववाद्यधिपकथनम् ॥ “पौष्टिकस्थिरशुभानि ववाख्ये वालवे द्विजहिताद्यपि कर्म्म । कौलवे प्रमदमित्रविधानं तैतिले शुभगताश्रयकर्म्म ॥ गरे च बीजाश्रयकर्षणानि बणिज्यपि स्थैर्य्यबणिक्क्रिया च । न सिद्धिमाप्नोति कृतञ्च विष्ट्यां विषाभिघातादिषु तत्र सिद्धिः ॥ मन्त्रौषधानि शकुनौ च सपौष्टिकानि गोविप्रराज्यपितृकर्म्म चतुष्पदे तु । सौभाग्यदारुणकृतिध्रुवकर्म्मनागे किन्तुघ्ननाम्नि शुभपौष्टिकमङ्गलानि ॥” इति ज्योतिस्तत्त्वम् ॥ (यथा, कलाविलासे । २ । ११ । “कश्चिद्वदति समेत्य द्रविणं निःक्षिप्य हन्त- गन्तास्मि । भ्रातःपरं प्रभाते विष्टिदिनं किं करोम्यद्य ॥”)