संस्कृत-शब्दकोशः

विष्णुतैल विष्णुदैवत्य

विष्णुदैवत

वाचस्पत्यम्

विष्णुदैवत(त्य) ||‍ त्रि० विष्णुर्दैवतं(त्यं) यस्य । विष्णुदेवताके द्रव्यादौ “गृहन्तु सर्वदैवत्यं यदनुक्तं द्विजोत्तमाः! । तज्ज्ञेयं विष्णुदैवत्यं सर्वं वा विष्णुदेवतम” शु० त० विष्णु० । २ श्रवणनक्षत्रे च ।


शब्दकल्पद्रुमः

विष्णुदैवतं || त्रि (विष्णुर्द्दैवतं दैवत्यं वा यस्य ।)
विष्ण्वधिष्ठातृदेवताकम् । यथा, —
“व्रतोपकरणं सर्व्वं कथितं सर्व्वदैवतम् । गृहन्तु सर्व्वदैवत्यं यदनुक्तं द्बिजोत्तमाः । तज्ज्ञेयं विष्णुदैवत्यं सर्व्वं वा विष्णुदैवतम् ॥”



Correction: