संस्कृत-शब्दकोशः

विष्णुदैवत विष्णुदैवत्या

विष्णुदैवत्य

वाचस्पत्यम्

विष्णुदैवत्य is an alternate of विष्णुदैवत. विष्णुदैवत(त्य) ||‍ त्रि० विष्णुर्दैवतं(त्यं) यस्य । विष्णुदेवताके द्रव्यादौ “गृहन्तु सर्वदैवत्यं यदनुक्तं द्विजोत्तमाः! । तज्ज्ञेयं विष्णुदैवत्यं सर्वं वा विष्णुदेवतम” शु० त० विष्णु० । २ श्रवणनक्षत्रे च ।


शब्दकल्पद्रुमः

विष्णुदैवत्यं || त्रि (विष्णुर्द्दैवतं दैवत्यं वा यस्य ।)
विष्ण्वधिष्ठातृदेवताकम् । यथा, —
“व्रतोपकरणं सर्व्वं कथितं सर्व्वदैवतम् । गृहन्तु सर्व्वदैवत्यं यदनुक्तं द्बिजोत्तमाः । तज्ज्ञेयं विष्णुदैवत्यं सर्व्वं वा विष्णुदैवतम् ॥” इति शुद्धितत्त्वे विधष्णुर्म्मोत्तरवचनम् ॥ क्ली, श्रवणानक्षत्रम् । इति ज्योतिषम् ॥



Correction: