शब्दकल्पद्रुमः
विष्णुदैवत्या || स्त्री (विष्णुर्द्दैवत्यमस्याः ।)
एका- दशीतिथिः । द्बादशीतिथिः । यथा, —
“एकादशी द्वादशी च प्रोक्ता श्रीचक्रपाणिनः । एयोदशी त्वनङ्गस्य शिवस्योक्ता चतुर्द्दशी ॥” इति स्मृतिः ॥ “एकादशीमुपोष्यैव द्वादशीं समुपोषयेत् । न चात्र विधिलोपः स्यादुभयोर्द्देवता हरिः ॥” इति तिथ्यादितत्त्वम् ॥