वाचस्पत्यम्
विष्णुपद || न० विष्णोः पदमिव व्यापकत्वात् । १ आकाशे अ- मरः । ६ त० । २ क्षीरार्णवे मेदि० । ३ पद्मे च हेमच० ४ विष्णोश्चरणै कर्म० । ५ विष्णुरूपस्थाने च “तद्विष्णोः परमं पदम्” ऋ० विष्णुसूक्तम् ।
शब्दकल्पद्रुमः
विष्णुपदं || क्ली (विष्णोः पदम् ।)
आकाशम् । इत्यमरः ॥ (यथा, रघुवंशे । १६ । २८ । “वसुन्धराविष्णु पदं द्वितीय- मध्यारुरोहेव रजश्छलेन ॥”)
क्षीरोदः । इति मेदिनी ॥ पद्मम् । इति हेम- चन्द्रः ॥ (तीर्थविशेषः । यथा, महाभारते । ७ । ८३ । ९५ । “तत्र विष्णुपदे स्नात्वा अर्च्चयित्वा च वामनम् । सर्व्वपापविशुद्धात्मा विष्णुलोकं स गच्छति ॥” कैलासपर्व्वतस्य स्थानविशेषः । यथा, महा- भारते । ५ । १११ । २२ । “अत्र विष्णुपदं नाम क्रमता विष्णुना कृतम् ॥” पर्व्वतविशेषः । यथा, हरिवंशे । ३१ । ४३ । “तेन चित्ररथेनाथ तदा विष्णुपदे गिरौ ॥”)
विष्णोः स्थानम् । यथा, “अपुण्यपुण्योपरमे क्षीणाशेषाप्तिहेतवः । यत्र गत्वा न शोचन्ति तद्विष्णोः परमं पदम् ॥ धर्म्मध्रुवाद्यास्तिष्ठन्ति यत्र ते लोकसाक्षिणः । तत्सार्ष्ट्योत्पन्नयोगेद्धास्तद्विष्णोः परमं पदम् ॥ यत्रैतदोतं प्रोतं च यद्भूतं सचराचरम् । भाव्यञ्च विश्वं मैत्रेय तद्विष्णोः परमं पदम् ॥ दिवीव चक्षुराततं विततं तन्महात्मनाम् । विवेकज्ञानवृद्धञ्च तद्धि विष्णोः परं पदम् ॥” इति विष्णुपुराणे २ अंशे ८ अध्यायः ॥ भ्रूमध्यम् । यथा, —
“अरुन्धतीं ध्रुवञ्चैव विष्णोस्त्रीणि पदानि च । आसन्नमृत्युर्नो पश्येच्चतुर्थं मातृमण्डलम् ॥ अरुन्धती भवेज्जिह्वा ध्रुवो नासाग्रमुच्यते । विष्णोः पदानि भ्रूमध्ये नेत्रयोर्म्मातृमण्डलम् ॥” इति काशीखण्डे ४२ अध्याये १३ । १४ श्लोकौ ॥