संस्कृत-शब्दकोशः

विष्णुपद विष्णुपदीचक्र

विष्णुपदी

वाचस्पत्यम्

विष्णुपदी ||‍ स्त्री० विष्णुपदं कारणत्वेनास्त्यस्याः अच् गौरा० ङीष् । १ गङ्गायाम् “निर्गता विष्णुपादाब्जात् तेन विष्णुपदी स्मृता” ब्रह्मवै० प्र० ९ अ० । २ वृषसिंहवृश्चिक- कुम्भराशौ रवेः संक्रान्तौ च । “वृषवृश्चिककुम्भेषु सिहे विष्णुपदी स्मृता” “पुण्यायां विष्णुपद्याञ्च प्राक्पश्चादपि षोडश” ज्यो० त० । “अयने कोटिगुणितं लक्षं विष्णुपदोषु च” ति० त० “तदन्तरेषु संक्रान्तिद्वितयं द्वितयं पुनः । नैरन्तर्यात् तु संक्रान्तेर्ज्ञेयं विष्णुपदीद्वयम्” सू० सि० । “तदन्तरेषु विषुवायनान्तरालेषु । अत्रान्तरालानां चतुः- स्थाने सद्भावाद् बहुवचनम् । संक्रान्तिद्वितयं द्वितयं पुनाराश्यादिभागे ग्रहाणामाक्रमणं वारद्वयं भवति तदन्तराले राश्यादिभागौ द्वौ भवत इत्यर्थः । तथा हि मेषाख्यविषुवकर्काख्यायनयोरन्तराले वृषमिथुनयोरादी । कर्कतुलयोरन्तराले सिंहकन्ययोरादी । तुलामकरयोर- न्तराले वृश्चिकधनुषोरादी । मकरमेषयोरन्तराले कुम्भ- मीनयोरादी इति एव विषुवानन्तरं संक्रमणद्वयमन- न्तरमयनं तदनन्तरं संक्रान्तिद्वयं तदनन्तरं विषुवमन- न्तरं संक्रान्तिद्वयमनन्तरमयनमित्यादि पौनःपुन्येन ज्ञेयमित्यर्थः । संक्रान्तिद्वयमध्ये प्रथमसंक्रान्तौ विशेष- माह । नैरन्तर्यादिति । निरन्तरतया सम्भूतायाः संक्रान्तेः सकाशाद्विष्णुपदीद्वयं तदन्तराल इत्यर्थः” रङ्ग०


शब्दकल्पद्रुमः

विष्णुपदी || स्त्री (विष्णोः पदं स्थानं यस्याः । गौरादित्वात् ङीष् ।)
गङ्गा । इत्यमरः ॥ (यथा, भागवते । १ । १९ । ७ । “इति व्यवच्छिद्य स पाण्डवेयः प्रायोपवेशं प्रति विष्णुपद्याम् । दध्यौ मुकुन्दाङ्घ्रिमनन्यभावो मुनिव्रतो मुक्तसमस्तसङ्गः ॥”)
अस्याः कारणं यथा, — नारद उवाच । “कलेः पञ्चसहस्राब्दे समतीते सुरेश्वरी । क्व गता सा महाभाग तन्मे व्याख्यातुमर्हसि ॥ नारायण उवाच । गङ्गा सरस्वती लक्ष्मीश्चैतास्तिस्रो हरेः प्रियाः । तुलसीसहिता ब्रह्मन् चतस्रः कीर्त्तिताः श्रुतौ ॥ नारद उवाच । बभूव सा मुनिश्रेष्ठ गङ्गा नारायणप्रिया । अहो केन प्रकारेण तन्मे व्याख्यातुमर्हसि ॥ नारायण उवाच । पुरा बभूव गोलोके गङ्गा सा द्रवरूपिणी । राधाकृष्णाङ्गसंभूता तदंशा तत्स्वरूपिणी ॥ द्रवाधिष्ठातृदेवी सा रूपेणाप्रतिमा भुवि । सा सकामा कृष्णपार्श्वे समुवास सलज्जिता ॥ प्रफुल्लवदना हर्षान्नवसङ्गमलालसा । मूर्च्छिता प्रभुरूपेण पुलकाङ्कितविग्रहा ॥ एतस्मिन्नन्तरे तत्र विद्यमाना च राधिका । गोपीत्रिंशत्कोटिवृता कोटिचन्द्रसमप्रभा ॥ कोपेन रक्तपद्मास्या रक्तपङ्कजलोचना । सुचारुरागसंयुक्तमोष्ठं कम्पयती रुषा ॥ ताञ्च दृष्ट्वा समुत्तस्थौ कृष्णः सादरपूर्ब्बकम् । उत्थाय गङ्गा सहसा सम्भाषाञ्च चकार सा ॥ कुशलं परिपप्रच्छ भीतातिविनयेन च । ध्यानेन शरणापन्ना श्रीकृष्णचरणाम्बुजे ॥ तद्धृत्पद्मस्थितो विष्णुर्भीतायै चाभयं ददौ । बभूव स्थिरचित्ता सा सर्व्वेश्वरवरेण च ॥ ऊर्द्ध्वसिंहासनस्थाञ्च राधां गङ्गा ददर्श सा । एतस्मिन्नन्तरे राधा जगदीशमुवाच सा ॥ केयं प्राणेश कल्याणी सस्मिता तन्मुखाम्बुजम् । पश्यन्ती सस्मितं पार्श्वे सकामा बक्रलोचना ॥ त्वञ्चापीमां सन्निरीक्ष्य सकामः सस्मितः सदा । मयि जीवति गोलोके भूता दुर्वृत्तिरीदृशी ॥ त्वमेवैवञ्च दुर्वृत्तं वारंवारं करोषि च । क्षमां करोमि प्रेम्णा च स्त्रीजातिः स्निग्ध- मानसा ॥ संगृह्येमां प्रियामिष्टां गोलोकाद्गच्छ लम्पट । अन्यथा न हि ते भद्रं भविष्यति व्रजेश्वर ॥ इत्येवमुक्त्वा सा राधा रक्तपङ्कजलोचना । गङ्गां वक्तुं समारेभे नम्रास्यां लज्जितां सतीम् । गङ्गा रहस्यं विज्ञाय योगेन सिद्धयोगिनी । तिरोभूय सभामध्यात् स्वजलं प्रविवेश सा ॥ राधा योगेन विज्ञाय सर्व्वत्रावस्थिताञ्च ताम् । पानं कर्त्तुं समारेभे गण्डूषात् सिद्धयोगिनी ॥ गङ्गा रहस्यं विज्ञाय योगेन सिद्धयोगिनी । श्रीकृष्णचरणाम्भोजं विवेश शरणं ययौ ॥ गोलोकञ्चैव वैकुण्ठं ब्रह्मलोकादिकं तथा । ददर्श राधा सर्व्वत्र नैव गङ्गां ददर्श सा ॥ ब्रह्मविष्णुशिवानन्तधर्म्मेन्द्रेन्दुदिवाकराः । मनवो मुनयः सर्व्वे देवाः सिद्धास्तपस्विनः ॥ गोलोकञ्च समाजग्मुः शुष्ककण्ठोष्ठतालुकाः । सर्व्वे प्रणेमुर्गोविन्दं सर्व्वेशं प्रकृतेः परम् । विज्ञाय तदभिप्रायं तानुवाच सुरेश्वरः ॥ श्रीभगवानुवाच । आगताः सुमहाभागा गङ्गानयनकारणात् । गङ्गा मच्चरणाम्भोजे भयेन शरणं गता ॥ राधेमां पातुमिच्छन्ती दृष्ट्वा मां सन्निधानतः । दास्यामीमां बहिष्कृत्य यूयं कुरुत निर्भयाम् ॥ श्रीकृष्णस्य वचः श्रुत्वा सस्मितः कमलोद्भवः । तुष्टाव सर्व्वाराध्यां तां राधां श्रीकृष्णपूजिताम् ॥ वक्त्रैश्चतुर्भिः संस्तूय भक्तिनम्रात्मकन्धरः । धाता चतुर्णां वेदानामुवाच चतुराननः ॥ गङ्गा त्वदङ्गसंभूता प्रभोश्च रासमण्डले । युवयोर्द्रवरूपा सा मुग्धयोः शङ्करस्वरात् ॥ कृष्णांशा च त्वदंशा च त्वत्कन्यासदृशी प्रिया । त्वन्मन्त्रग्रहणं कृत्वा करोतु पूजनं तव ॥ भविष्यति पतिस्तस्या वैकुण्ठेशश्चतुर्भुजः । ब्रह्मणो वचनं श्रुत्वा स्वीचकार च सस्मिता ॥ बहिर्बभूव सा कृष्णपादाङ्गुष्ठनखाग्रतः । तत्रैव संवृता शान्ता तस्थौ तेषाञ्च मध्यतः ॥ उवास तोयादुत्थाय तदधिष्ठातृदेवता । तत्तोयं ब्रह्मणा किञ्चित् स्थापितञ्च कमण्डलौ ॥ किञ्चिद्दधार शिरसि चन्द्रार्द्धे चन्द्रशेखरः । गङ्गायै राधिकामन्त्रं प्रददौ कमलोद्भवः ॥ गङ्गा तामेव संपूज्य वैकुण्ठं प्रययौ सती । गोलोके च स्थिता गङ्गा वैकुण्ठे शिवलोकके ॥ ब्रह्मलोके तथान्यत्र यत्र तत्र पुरा स्थिता । तत्रैव सा गता गङ्गा चाज्ञया परमात्मनः ॥ निर्गता विष्णुपादाब्जात् तेन विष्णुपदी स्मृता ॥” इति श्रीब्रह्मवैवर्त्ते प्रकृतिखण्डे गङ्गोपाख्यानं ९ अध्यायः ॥ * ॥
वृषवृश्चिकसिंहकुम्भसंक्रान्तयः । यथा, भविष्यमात्स्वज्योतिषेषु । “धनुर्मिथुनकन्यासु मीने च षडशीतयः । वृषवृश्चिककुम्भेषु सिंहे विष्णुपदी स्मृता ॥” अपि च । “एवञ्च षडशीत्यादिष्ववकाशमलभमानम् । अर्व्वाक् षोडश विज्ञेया नाड्यः पश्चाच्च षोडश ॥ कालः पुण्योऽर्कसंक्रान्तेर्विद्वद्भिः परिकीर्त्तितः ॥” इति शातातपीयं दिवा विष्णुपदीविषयम् ॥ अतएव जावालीबृहद्बशिष्ठौ । “पुण्यायां विष्णुपद्याञ्च प्राक् पश्चादपि षोडश ।” तत्र स्नानादिफलम् । “अयने कोटिगुणितं लक्षं विष्णुपदीषु च । षडशीतिसहस्रन्तु षडशीत्यामुदाहृतम् ॥” इति तिथ्यादितत्त्वम् ॥



Correction: