शब्दकल्पद्रुमः
विष्णुपदीचक्रं || क्ली (विष्णुपद्याश्चक्रम् ।)
ज्यैष्ठा- ग्रहायणभाद्रफाल्गुनमासीयरविसंक्रमकालीन- नक्षत्रविन्यासाङ्गकशुभाशुभफलज्ञापकनराकार- चक्रम् । यथा, —
“ऋक्षे संक्रमणं यत्र विष्णुपद्यां मुखे तु तत् । चत्वारि दक्षिणे बाहौ त्रीणि त्रीणि पदद्वये ॥ चत्वारि वामबाहौ च हृदये पञ्च निर्द्दिशेत् । अक्ष्णोर्द्वयं द्वयं योज्यं मूर्ध्नि द्वौ चैककं गुदे ॥” फलं यथा, —
“रोगो भोगस्तथा यानं बन्धनं लाभ एव च । ऐश्वर्य्यं राजपूजा च अपमृत्युरिति क्रमात् ॥” इति ज्योतिस्तत्त्वम् ॥