संस्कृत-शब्दकोशः

विष्णुमाया विष्णुरथ

विष्णुयशस्

वाचस्पत्यम्

विष्णुयशस् ||‍ पु० कल्किपितरि कल्किपु० ।


शब्दकल्पद्रुमः

विष्णुयशाः || [स्] पुं, (विष्णु व्यापकं यशो यस्य । नारायणपितृत्वादेवास्य तथात्वम् । यद्वा, विष्णुना ग्रहीतव्यजन्मना यशो यस्य ।)
ब्रह्म- यशःपुत्त्रः । स च कल्किपिता । यथा, — नारद उवाच । “अहो बलवती माया सर्व्वाश्चर्य्यमयी शुभा । पितरं मातरं विष्णोर्नैव मुञ्चति कर्हिचित् ॥ पूर्णो नारायणो यस्य सुतः कल्किर्जगत्पतिः । तं विहाय विष्णुयशा मत्तो मुक्तिमभीप्सति ॥ विविच्येत्थं ब्रह्मसुतः प्राह ब्रह्मयशःसुतम् । विविक्ते विष्णुयशसं ब्रह्मसम्पद्विवर्द्धनम् ॥” इति कल्किपुराणे ३० अध्यायः ॥



Correction: