वाचस्पत्यम्
विष्णुवल्लभा || स्त्री ६ त० । १ तुलस्याम् राजनि० २ अग्नि- शिखावृक्षे च शब्दच० । ३ लक्ष्म्याम् ।
शब्दकल्पद्रुमः
विष्णुवल्लभा || स्त्री (विष्णोर्व्वल्लभा ।)
तुलसी । इति राजनिर्घण्टः ॥ लक्ष्मीः । यथा, —
“त्रैलोक्यपूजिते मातः कमले विष्णु वल्लभे । यथा त्वमचला कृष्णे तथा भव मयि स्थिरा ॥” इति तन्त्रसारः ॥ अग्निशिखावृक्षः । इति शब्दचन्द्रिका ॥