शब्दकल्पद्रुमः
विष्णुशिला || स्त्री (विष्णु नाधिष्ठिता शिला ।) शालग्रामशिला । कलौ तस्य स्थितिकालो यथा, — “अयुताब्दे कलेर्याते त्यजेद्विष्णु शिला महीम् । तदर्द्धाज्जाह्नवीतोयं तदर्द्धाद्देवताशिला ॥” इति मेरुतन्त्रे ५ प्रकाशः ॥