संस्कृत-शब्दकोशः

विष्णुशिला विष्य

विष्फार

वाचस्पत्यम्

विष्फार ||‍ पु० वि + स्फुर—णिच्—अच् अच आत् षत्वम् । धनुगुंणाकर्षणशब्दे टङ्कारे अमरः ।


शब्दकल्पद्रुमः

विष्फारः || पुं, (वि + ष्फुर स्फुरणे + घञ् । “स्फुरति- स्फुलत्योर्घञि ।” ६ । १ । ४७ । इत्यात्वम् । “स्फुरति स्फुलत्योर्निर्निविभ्यः ।” ८ । ३ । ७६ । इति षत्वञ्च ।)
धनुर्गुणशब्दः । इत्यमरः ॥ धनुर्गुणस्य स्वान- ष्टङ्कारो विष्फारः । स्फुर शि घ स्फुर्त्तौ चले घञस्य दैधावोदेति निपातः । किंवा स्फुरधातो रूपं विष्कभ्नेत्यादिना पाक्षिकषत्वात् विष्फारो दन्त्यसो मूर्द्धन्यषश्च । इति भरतः ॥



Correction: