वाचस्पत्यम्
विष्य || त्रि० विशेषेण वध्यः विष + यत् । विषेण बध्ये अमरः ।
शब्दकल्पद्रुमः
विष्यः || त्रि (विषेण वध्यः । विष + “नौवयो- धर्म्मेति ।” ४ । ४ । ९१ । इति यत् ।)
विषेण यो वध्यः । इत्यमरः ॥ (विषेण क्रीतः । विषाय हित इति वा । इत्यर्थे “उगवादिभ्यो यत् ।” ५ । १ । २ । इति यत् ॥)