वाचस्पत्यम्
विष्वक्सेन is an alternate of विश्वक्सेन. विश्व(ष्व)क्सेन || विशु(षु)ची सेना यस्य । १ विष्णौ अमरः २ प्रियङ्गुवृक्षे स्त्री ३ विष्णोर्निर्माल्यधारके तदीयगणभेदे “निर्माल्यधारी विष्णोस्तु विश्च(ष्व)क्सेनश्चतुर्भुजः” कालिकापु० ८२ अ० । ४ त्रयोदशमनौ मत्स्यपु० ९ अ० । षमध्य एवेष्वर्थेषु पा० सम्मतः भरतस्तु शमध्यतामाह तन्मूलं चिन्त्र्यम् ।
शब्दकल्पद्रुमः
विष्वक्सेनः || पुं, विष्णुः । इत्यमरः ॥ (यथा, शिशु- पालवधे । १० । ५५ । “साम्यमाप कमलासखविष्वक्- सेनसेवितयुगान्तपयोधेः ॥”)
विष्णोर्निर्म्माल्यधारी । यथा, —
“निर्म्माल्यधारी विष्णोस्तु विष्वक्सेनश्चतुर्भुजः । शङ्खचक्रगदापाणिर्दीर्घश्मश्रुर्जटाधरः ॥ रक्तपिङ्गलवर्णस्तु सितपद्मोपरिस्थितः । पतृतीयः स्वरान्तेन संयुतो बिन्दुनेन्दुना । कीर्त्तितस्तस्य मन्त्रोऽयं तेन तं परिपूजयेत् ॥” इति कालिकापुराणे ८२ अध्यायः ॥ त्रयोदशमनुः । यथा, —
“ततश्च मेरुसावर्णः ब्रह्मसूनुर्म्मनुः स्मृतः । ऋतुश्च ऋतुधामा च विष्वक्सेनो मनुस्तथा ॥” इति मात्स्ये ९ अध्यायः ॥