शब्दकल्पद्रुमः
विसारिणी || स्त्री (विशेषेण सरतीति । सृ + णिनिः । ङीप् ।) माषपर्णी । इति राज- निर्घण्टः ॥) प्रसरणशीला । यथा, राजतर- ङ्गिण्याम् । ८ । ९८२ । “निर्धूमस्य विसारिण्यो ज्वाला हव्यभुजो दधुः ॥”)