संस्कृत-शब्दकोशः

विसारित विसिनी

विसारिन्

वाचस्पत्यम्

विसारिन् ||‍ त्रि० वि + सृ—णिनि । १ प्रसरणशीले २ मत्स्ये पु० ३ माषपर्ण्यां स्त्री राजनि० ङीप् ।


शब्दकल्पद्रुमः

विसारी || [न्] त्रि, (वि + सृ + णिनिः ।)
प्रसरण- शीलः ॥ तत्पर्य्यायः । विसृत्वरः २ विसृमरः ३ प्रसारी ४ । इत्यमरः ॥ (यथा, रघुः । ३ । १५ । “अरिष्टशय्यां परितो विसारिणा सुजन्मनस्तस्य निजेन तेजसा ॥”)



Correction: