वाचस्पत्यम्
विसूचिका || स्त्री विशिष्टा सूचीव इवार्थे कन् । रोगभेदे तस्य निरुक्तिर्यथा “सूचीभिरिव गात्राणि तुदन् सन्ति- ष्ठतेऽनिलः । यस्याजीर्णेन सा वैद्यैर्विसूचीति निगद्यते । तस्य निदानमाह “न तां परिमिताहारा लभन्ते वि- दितागमाः । मूढास्तामजितात्मानो लभन्तेऽशनलोलुपाः । विदितागमा ज्ञातायुर्वेदाः । तस्यालक्षणमाह “मूर्च्छा- तिसारो वमथुः पिपासा शूलं भ्रमोद्वेष्टनजृम्भदाहाः । वैवर्ण्यकम्पौ हृदये रुजश्च भवन्ति तस्यां शिरसश्च भेदः” । उद्वेष्टनं हस्तपादयोः, शिरसोभेदः शिरः शूलम् । तस्या उपद्रवानाह “निद्रानाशोऽरतिः कम्पो भूत्राघातो विसंज्ञता । अमी उपद्रवा घोरा विसूच्याः पञ्च दारुणाः । अमी उपद्रवा घोराः अमी निद्रानाशा- दय उपद्रवाः सर्वेषामेव रोगाणां घोराः भयङ्कराः । विसूच्याः पञ्चदारुणाः विसूच्यास्तु पञ्चामि यदि स्युस्तदा दारुणाः प्राणभयङ्कराः । तस्या अरिष्टमाह “यः श्यावदन्तोष्ठनखोऽल्पसंज्ञश्छर्द्यर्दितोऽभ्यन्तरयातनेत्रः । क्षामस्वरः सर्वविमुक्तसन्धिर्मासान्नरःसोऽपुनरागमाय” । सर्वविमुक्तसन्धिः सर्वे विमुक्ताः शिथिलीभूताः सन्धयो यस्य सः” भावप्र० ।
शब्दकल्पद्रुमः
विसूचिका || स्त्री (विसूची + स्वार्थे कन् ।)
अजीर्णरोगविशेषः । इति भावप्रकाशः ॥ (अस्या विशेषविवृतिस्तु अजीर्णविसूचीशब्द- योर्द्रष्टव्या ॥)