शब्दकल्पद्रुमः
विसूची || स्त्री (विशेषेण सूचयति मृत्युमिति । वि + सूच् + अच् । स्त्रियां ङीष् । यद्वा, विशिष्टा सूचीव ।)
अजीर्णरोगविशेषः । ओलाउटा इति भाषा ॥ तस्य निरुक्तिर्यथा, —
“सूचीभिरिव गात्राणि तुदन् सन्तिष्ठतेऽनिलः । यस्याजीर्णेन सा वैद्यैर्व्विसूचीति निगद्यते ॥” तस्या निदानमाह । “न तां परिमिताहारा लभन्ते विदितागमाः । मूढास्तामजितात्मानो लभन्तेऽशनलोलुपाः ॥” विदितागमा ज्ञातायुर्व्वेदाः ॥ * ॥
तस्या लक्षणमाह । “मूर्च्छातिसारो वमथुः पिपासा शूलं भ्रमोद्वेष्टनजृम्भदाहाः । वैवर्ण्यकम्पौ हृदये रुजश्च भवन्ति तस्यां शिरसश्च भेदः ॥” उद्वेष्टनं हस्तपादयोः । शिरसो भेदः शिरः- शूलम् ॥ * ॥
तस्या उपद्रवानाह । “निद्रानाशोऽरतिः कम्पो मूत्राघातो विसं- ज्ञता । अमी उपद्रवा घोरा विसूच्याः पञ्च दारुणाः ॥” अमी उपद्रवा घोराः अमी निद्रानाशादव उपद्रवाः सर्व्वेषामेव रोगाणां घोरा भयङ्कराः । विसूच्याः पञ्च दारुणाः विसूच्यास्तु पञ्चापि यदि स्युस्तदा दारुणाः प्राणभयङ्कराः ॥ * ॥
तस्या अरिष्टमाह । “यः श्यावदन्तौष्ठनखोऽल्पसंज्ञ- श्छर्द्द्यर्द्दितोऽभ्यन्तरयातनेत्रः । क्षामस्वरः सर्व्वविमुक्तसन्धि- र्यायान्नरः सोऽपुनरागमाय ॥” सर्व्वविमुक्तसन्धिः सर्व्वे विमुक्ताः शिथिलीभूताः सन्धयो यस्य सः ॥ इति भावप्रकाशः ॥ * ॥
अस्याश्चिकित्सा अजीर्णशब्दे द्रष्टव्या ॥