वाचस्पत्यम्
विस्त || पु० न० विस—उत्सर्गे क्त नि० न इट् । १ स्वर्णकर्षे २ अ- शीतिरत्तिकापरिमाणे च अमरः ।
शब्दकल्पद्रुमः
विस्तः || पुं, क्ली, (विस उत्सर्गे + क्तः ।) हेम्नो- ऽक्षः । अशीतिरत्तिकापरिमितस्वर्णम् । इत्य- मरः ॥