वाचस्पत्यम्
विस्फुलिङ्ग || पु० विस्फुरति वि + स्फुर—डु तादृशं लिङ्ग- मस्य । १ वह्निकणे २ विषभेदे च हेमच० ।
शब्दकल्पद्रुमः
विस्फुलिङ्गः || पुं, विषभेदः । इति हेमचन्द्रः ॥ (विशिष्टः स्फुलिङ्गः ।) अग्निकणा च ॥