शब्दकल्पद्रुमः
विस्फुरितः || त्रि (वि + स्फुर + क्तः ।) स्फूर्त्ति- विशिष्टः । चञ्चलः । यथा, — “रक्तरक्तीकृताङ्गञ्च रक्तविस्फुरितेक्षणम् । वेष्टितं नागपाशेन भ्रुकुटीभीषणाननम् ॥” इति दशभुजादुर्गाध्यानैकदेशः ॥