वाचस्पत्यम्
विस्मृत || त्रि० वि + स्मृ—क्त । स्मरणाविषये अमरः ।
शब्दकल्पद्रुमः
विस्मृतः || त्रि (वि + स्मृ + क्तः ।)
स्मरणाविषयः । तत्पर्य्यायः । अन्तर्गतम् २ । इत्यमरः ॥ (यथा, “पठित्वा सर्व्वशास्त्राणि विस्मृतान्यक्षराणिच । आस्ते किञ्चित् मम स्वान्ते टवर्गस्य तु पञ्चमः ॥” इत्युद्भटः ॥)