संस्कृत-शब्दकोशः

विस्मृति विस्रगन्धा

विस्र

वाचस्पत्यम्

विस्र ||‍ न० विस—रक् । आमगन्धौ १ चिताधूमादौ २ अपक्व- मांसगन्धे भरतः । ३ आमगन्धे च


शब्दकल्पद्रुमः

विस्रं || क्ली आमगन्धः । इत्यमरः ॥ इदं चिता- धूमादिगन्धे अपक्वमांसगन्धे इत्यन्ये । इति भरतः ॥ (यथा, कथासरित्सागरे । ७४ । १९६ । “समाश्लिषञ्च धावित्वा सिञ्चन् धराश्रुभिः स तम् । मीनोदरदरीवासविस्रं प्रक्षालयन्निव ॥” तद्विशिष्टे, त्रि । यथा, कथासरित्सागरे । ८२ । ७ । “अहमेनं न शक्नोमि ग्रहीतुं विस्रपिच्छलम् ॥”)



Correction: