संस्कृत-शब्दकोशः

विहङ्ग विहङ्गमा

विहङ्गम

वाचस्पत्यम्

विहङ्गम ||‍ पुंस्त्री० विहायसा गच्छति गम—खच् नि० । पक्षिणि अमरः स्त्रियां ङीष् । २ भारयष्टौ स्त्री (वाँक) शब्दच० ।


शब्दकल्पद्रुमः

विहङ्गमः || पुं, (विहायसा गच्छतीति । ३ । २ । ३८ । इत्यत्र । “खच्प्रकरणे गमेः सुप्युपसंख्यानम् ।” इति काशिकोक्त्या खच् । “विहायसो विह च ।” इति विहादेशः ।)
पक्षी । इत्यमरः ॥ (यथा, महाभारते । ३ । २७४ । ३९ । “आक्रम्य रत्नान्यहरत्कामरूपी विहङ्गमः ॥” सूर्य्यः । यथा, मार्कण्डेये । १०९ । ६७ । “छन्दोभिरश्वरूपैश्च सकृद्युक्तैर्व्विहङ्ग- मम् ॥”)



Correction: