संस्कृत-शब्दकोशः

विहग विहङ्गम

विहङ्ग

शब्दकल्पद्रुमः

विहङ्गः || पुं, (विहायसा गच्छतीति । ३ । २ । ३८ । इत्यत्र “गमेः सुपीति ।” खच् । “विहायसो विह च ।” इति विहादेशः । “खच्च डिद्वा वक्तव्यः ।” इति डिच्च ।)
पक्षी । इत्यमरः ॥ (यथा, रघुवंशे । १ । ५१ । “सेकान्ते मुनिकन्याभिस्तत्क्षणोज्झितवृक्षकम् । विश्वासाय विहङ्गानामालवालाम्बुपायिनाम् ॥”)
बाणः । (यथा, महाभारते । ८ । ६६ । ३५ । “त्वत्प्रेरितैर्लोहिताङ्गैर्व्विहङ्गैः ॥”)
मेघः । चन्द्रः । सूर्य्यः । इति शब्दरत्नावली ॥ (नागविशेषः । १ । ५७ । ११ । “विहङ्गः शरभो मेदः प्रमोदः संहतोपनः ॥”)



Correction: