वाचस्पत्यम्
विहङ्गराज || पु० ६ त० अच् समा० । गरुडे हला० “विहङ्ग- राजाङ्गरुहैरिवायतैः” माघः ।
शब्दकल्पद्रुमः
विहङ्गराजः || पुं, (विहङ्गानां राजा । समासे टच् ।)
गरुडः । इति हलायुधः ॥ (यथा, शिशुपालवधे । १ । ७ । “विहङ्गराजाङ्गरुहैरिवायतै- र्हिरण्मयोर्व्वीरुहवल्लितन्तुभिः ॥”)