शब्दकल्पद्रुमः
विहतः || त्रि विशेषेण हतः । विनष्टः । विपूर्व्वक- हनधातोः क्तप्रत्ययेन निष्पन्नमिदम् ॥