वाचस्पत्यम्
विहस्त || त्रि० विगतो हस्तो हस्तावलम्बनं यस्य । १ व्याकले अमरः । २ पण्डिते मेदि० ३ पण्डे च पु० शब्दच० । प्रा० ६ ब० । ४ हस्तशून्ये त्रि० ।
शब्दकल्पद्रुमः
विहस्तः || त्रि व्याकुलः । इत्यमरः ॥ (यथा, रघुः । ५ । ४९ । “रामापरित्राणविहस्तयोधं सेनानिवेशं तुमुलं चकार ॥”)
पण्डितः । इति मेदिनी ॥ (यथा, हरिवंशे । २३७ । २८ । “नानायुधविहस्तानां त्वरितानां प्रधावताम् । क्ष्वेडितोत्क्रुष्टनिनदैर्गजबृंहितनिस्वनैः ॥”)
विकरः । (यथा, विख्यातविजये । २ अङ्के । “विगतरथविहस्तन्यस्तशस्त्रप्रमत्त- स्खलितगतिभयार्त्तान् नैव जातु प्रहर्त्ता ॥”)
पण्डे, पुं । इति शब्दरत्नावली ॥