संस्कृत-शब्दकोशः

विहायसा विहार

विहायस्

वाचस्पत्यम्

विहायस् ||‍ पु० न० वि + हय—असुन् नि० वृद्धिः । १ आकाशे २ पक्षिणि पु० अमरः । स्वार्थे अच् । विहायसमप्या- काशे न० खगे पु० । आदन्तमव्ययम् आकाशे हेमच० ।


शब्दकल्पद्रुमः

विहायः || [स्] क्ली पुं, आकाशः । इत्यमरः ॥ (यथा, साहित्यदर्पणे । १० । “कान्तायते स्पर्शसुखेन वारि वारीयते स्वच्छतया विहायः ॥” त्रि, महान् । यथा, निरुक्ते । ४ । १५ । “विहा- यसस्तेभिरिन्द्रम् ।” “विहायसो महान्तः ॥” इति यास्कः ॥ यथा च निघण्टुटीकायाम् । ३ । ३ । १२ । “विहायाः । वहिहाधाञ्भ्यश्छन्दसि । उणा० ४ । २१५ । इति जहातेर्जिहीतेर्व्वा बाहुलकात् षुगभावेऽपि युगागमो निपात्यते ॥” यथा, ऋग्वेदे । ४ । ११ । ४ । “तद्वाजी वाजंभरो विहायाः ।” “विहायाः महान् ।” इति तद्भाष्ये सायणः ॥)


शब्दकल्पद्रुमः

विहायाः || [स्] पुं, पक्षी । इत्यमरः ॥



Correction: