विहारिन्
विहिति
विहित
वाचस्पत्यम्
विहित || त्रि० वि + धा—क्त । १ कृते विधिना २ बोधिते च ।
शब्दकल्पद्रुमः
विहितः || त्रि (वि + धा + क्तः ।)
विधेयः । यथा, “विहितस्याननुष्ठानात् निन्दितस्य च सेवनात् । अनिग्रहाच्चेन्द्रियाणां नरः पतनमृच्छति ॥” इति प्रायश्चित्ततत्त्वम् ॥