शब्दकल्पद्रुमः
विहितिः || स्त्री (वि + धा + क्तिन् ।) विधानम् । यथा, — “क्षितिविजितिस्थितिविहितिव्रतरतयः पर- गतयः । ऊरु रुरुधुर्गुरुदुधुवुर्युधि कुरवः स्वमरिकुलम् ॥” इति दण्डी ॥