वाचस्पत्यम्
वी(वि)काश || पु० वि + काश—घञ् वा दीर्घः । १ रहसि २ प्रकाशे च अमरः ।
शब्दकल्पद्रुमः
वीकाशः || पुं, (विकशनमिति । वि + कश + घञ् । “इकःकाशे ।” ६ । ३ । १२३ । इति वेरुपसर्गस्य दीर्घः ।) रहः । प्रकाशः । इत्यमरः ॥