संस्कृत-शब्दकोशः

वीची वीज

वीचीतरङ्ग

शब्दकल्पद्रुमः

वीचीतरङ्गः || पुं, न्यायविशेषः । स तु श्रोत्रे शब्दस्य उत्पत्तिकारणरूपः । यथा, —
“वीचीतरङ्गन्यायेन तदुत्पत्तिस्तु कीर्त्तिता । कदम्बगोलकन्यायादुत्पत्तिः कस्यचिन्मते ॥” इति भाषापरिच्छेदः ॥ ननु मृदङ्गाद्यवच्छेदेनोत्पन्ने शब्दे श्रोत्रे कथमुत्- पत्तिरित्यत आह वीचीति आद्यशब्दस्य बहिर्दशदिगवच्छिन्नोऽन्यः शब्दस्तैनैव शब्देन जन्यते तेन चापरस्तद्व्यापक एवं क्रमेण श्रोत्रोत्- पन्नो गृह्यत इति । कदम्ब इति आद्यशब्दाद्दश- दिक्षु दश शब्दा उत्पद्यन्ते तैश्चान्ये दश शब्दा उत्पद्यन्ते इति भावः । अस्मिन् कल्पे गौरवा- द्युक्तं कस्यचिन्मते इति । इति सिद्धान्तमुक्ता- वली ॥



Correction: