वाचस्पत्यम्
वीजन || न० वीज—भावे ल्युट् । १ व्यजने । करणे ल्युट् । २ चामरादौ ३ वस्तुनि पु० ४ चक्रवाके ५ जीवञ्जीवविहगे च पुंस्त्री० सारस्वतः । स्त्रियां ङीष् ।
शब्दकल्पद्रुमः
वीजनं || क्ली (वीज्यतेऽनेनेति । वि + ईज + करणे ल्युट् ।)
व्यजनम् । (यथा, आर्य्यासप्तशत्याम् । ४५० । “मलयजमपसार्य्य घनं वीजनविघ्नं विधाय बाहुभ्याम् ॥ स्मरसन्तापादगणितनिदाघमालिङ्गते मिथु- नम् ॥”)
वस्तु । कोके जीवञ्जीवे च पुं । इति सारस्वतः ॥