संस्कृत-शब्दकोशः

वीजपुष्प वीजपूर्ण

वीजपूर

वाचस्पत्यम्

वीजपूर ||‍ पु० पूर्य्यते पूर + घञ् ३ त० । (टावा लेवु) जम्बोर भेदे वाजपूर्णोऽप्यत्र । “वीजपूरफलं स्वादु रमेऽम्लं दोपनं लघु । रक्तपित्त- हरं कण्ठजिह्वाहृदयशोधकम् । श्वासकासारुचि- हरं हृद्यं तृष्णाहरं स्मृतम्” । तद्भेदमधुककंटी गुणा यथा “वीजपूरोऽपरः प्रोक्तामधुरा मधुमर्कटी । मधु- ककीटका स्वाद्वी रोचनी शीतला गुरुः । रक्तपित्तक्षय- श्वासकासहिक्काभ्रमापहा” भावप्र० ।


शब्दकल्पद्रुमः

वीजपूरः || पुं, (वीजानां पूरः समूहो यत्र ।)
फल- पूरः । इत्यमरः ॥ टावा लेवु इति वङ्गभाषा ॥ विजौरा इति हिन्दी भाषा ॥ तत्पर्य्यायः । वीजपूर्णः २ पूर्णवीजः ३ सुकेशरः ४ वीजकः ५ केशराम्लः ६ मातुलुङ्गः ७ सुपूरकः ८ रुचकः ९ वीजफलकः १० जन्तुघ्नः ११ दन्तुरच्छदः १२ पूरकः १३ रोचनफलः १४ । अस्य फलगुणाः । अम्लत्वम् । कटुत्वम् । उष्णत्वम् । श्वासकास- पवनशमनत्वम् । कण्ठशोधनकरत्वम् । लघु- त्वम् । हृद्यत्वम् । दीपनत्वम् । रुचिकारि- त्वम् । पावनत्वम् । आध्मानगुल्महृद्रोगप्लीहो- दावर्त्तनाशित्वम् । विबन्धे हिक्कायां शूले छर्द्द्याञ्च शस्यत्वञ्च । इति राजनिर्घण्टः ॥ * ॥
अपि च । “वीजपूरफलं स्वादु रसेऽम्लं दीपनं लघु । रक्तपित्तहरं कण्ठजिह्वाहृदयशोधकम् । श्वासकासारुचिहरं हृद्यं तृष्णाहरं स्मृतम् ॥” तद्भेदमधुकर्क्कटी । यथा, —
“वीजपूरोऽपरः प्रोक्तो मधुरो मधुकर्क्कटी । मधुकर्क्कटिका स्वाद्वी रोचनी शीतला गुरुः । रक्तपित्तक्षयश्वासकाशहिक्काभ्रमापहा ॥” इति भावप्रकाशः ॥ (यथा, महाभारते । ३ । १५८ । ४२ । “मुञ्जातकांस्तथा जीवान् दाडिमान् वीज- पूरकान् ॥”)



Correction: