वाचस्पत्यम्
वीजरुह || पु० वीजन रोहति रुह—क । वीजमात्रजाते धान्यादौ “कुरण्ट्याद्या अग्रवीजा मूलजास्तूपला- दयः । पर्वयोनय इक्ष्वाद्या स्कन्दजाः शल्लकीमुखाः । शाल्यादवो वीजरुहाः संमूच्छंजास्तृणादयः । स्युर्वन- स्पतिकयस्य षडेते मूलजातयः” हेमच० ।
शब्दकल्पद्रुमः
वीजरुहः || पुं, (वीजात् रोहतीति । रुह + इगुपधात् कः ॥)
शाल्यादिः । यथा, —
“कुरण्ट्याद्या अग्रवीजा मूलजास्तूपलादयः । पर्व्वयोनय इक्ष्वाद्याः स्कन्दजाः शल्लकीमुखाः ॥ शाल्यादयो वीजरुहा संमूर्च्छजास्तृणादयः । स्युर्व्वनस्पतिका यस्य षडेते मूलजातयः ॥” इति हेमचन्द्रः ॥ (क्वचित् वाच्यलिङ्गोऽपि दृश्यते ॥)