संस्कृत-शब्दकोशः

वीजरेचन वीजवृक्ष

वीजवपन

वाचस्पत्यम्

वीजवपन ||‍ न० वीजानि उप्यन्तेऽत्र वप—आधारे ल्युट् । १ क्षेत्रे । भावे ल्युट् । २ वीजस्य उत्पादनार्थं क्षेत्रे क्षपणे च । तद्दिनादि दीपिकायामुक्तं यथा “पूर्वाग्नियाम्यफणि- पित्र्यशिवान्यभषु रिक्ताष्टमीविगतचन्द्रतिथिं विहाय । द्व्यङ्गालिगोसमुदये विकजार्किपारे शस्तेन्दुयोगकरणेषु हलप्रवाहः । हलप्रवाहवद्वोजवपनस्य विधिः स्मृतः । चित्रायाञ्च शुभे केन्द्रे स्थिरर्क्षमनुजोदये । हेमवारि विलिप्तस्य वीजस्योन्नयतः शुचिः । इस चित्ते निधा- याथ स्वयं मुष्टित्रयं वपेत् । कृत्वा चान्योन्यप्रात्साहं नर्त्तको हृष्टमानसः ॥ प्राङ्मुखः कवसं गृह्म इमं मन्त्र मुदीरयेत् । त्वं वै वसुन्धरे! सीते बहुपुष्पफलप्रदे । नमस्ते मे शुभं नित्यं कृषिं मेधां शुभे कुरु! । रोहन्तु सर्वशस्यानि काले देवः प्रवर्षतु । कर्षकास्तु भवन्त्वग्र्या धान्येन च धनेन च” । “उप्त्वा वीजन्तु तत्रैव भोक्तव्यं बान्धवैः सह” । पराशरः “वैशाखे वपन श्रेष्ठं मध्यमं रोहिणीरवौ । अतः परस्मिन्नधम न जातु श्रावणे शुभम्” । कृषिशब्देऽधिकं दृश्यम् । ज्योतिषे “पूर्व- भाद्रपदामूलं रोक्षिण्युत्तरफल्गुनी । विशाखा शतभिषा वाथ धान्यादिरोपणे वरा । सदोप्त्वा रजनीं नीलीं पुत्रवित्तैर्वियुज्यते । स्वयजाते पुनस्ते द्वे पालयन् नैव दुष्यति । आरामे गृहमध्ये वा मोहात् सर्षपमावपन् । परामवं रिपुर्याति ससाधनधनक्षयम् । निशा नीली पलाशश्च चिञ्चा श्वेतापराजिता । कोविदारश्च सर्वत्र सर्वं निघ्नन्ति मङ्गलम्” । निशा हरिद्रा कोविदारको रक्तकाञ्चनः । “हेमाम्भसा वृक्षवीजं स्नातो मन्त्रेण रोपयेत् । वसुधेति सुशीतेति पुण्यदेति धरेति च । ममस्ते शुभगे! नित्यं द्रुमोऽयं वर्द्धतामिति” ज्यो० त० “एतेषु श्रुतिवारुणादितिविशाखोडूनि भौमं विना वीजोप्तिर्गदिता शुभा त्वगुभतोऽष्टाग्नीन्दुरामेन्दवः । रामेन्द्वाग्नियुगान्यसच्छुभकराण्युप्तौ हलेऽर्कोज्झिता- द्भाद्रामाष्टनवाष्टभानि मुनिभिः प्रोक्तान्यसत् सन्ति च” सु० चि० । “एतेष्विति । श्रुतिःश्रवणः वारुणं शतता- रका अदितिः पुनर्वसुः विशाखा प्रसिद्धा एतैरुडुभि- र्नक्षत्रैर्विनैतषु पूर्वोक्तनक्षत्रेषु भूलमघाघ्रुवमृदुक्षिप्र- धनिष्ठास्वातीषु पञ्चदशनक्षत्रेषु वीजोप्तिर्वीजवपनं शु- मम् । उक्तञ्च रत्नमालायाम् “हस्तात्त्रिपुष्योत्तररोहि- णीषु चित्रानुराधामृगरेवतीषु । स्वातौ धनिष्ठासु मघासु मूले वीजाप्तिरुत्कृष्टफलप्रदिष्टा” । वसिष्ठेनाप्ये- तावन्त्येव नक्षत्राण्युक्तानि “धातृद्वये कौणपपैत्रपुष्ये हस्तत्रये त्र्युत्तरमैत्रभेषु । पौष्णे धनिष्ठास्मथ वाश्विनीभे बीजोप्तिरुत्कृष्टफलप्रदा स्यादिति” । कौणपो मूलं नारदे- नाप्युक्तानि “मृदुध्रुवक्षिप्रभेषु पितृवायुवसूडुषु । स- मूलभेषु वीजोप्तिरत्युत्कृष्टफलप्रदा” । कश्यपेनापि “वसु- वायुभनैर्क्रत्यक्षिप्रध्रुवमृदूडुषु । सीतां स्मृत्वाथ वीजो- प्तिरत्युत्कृष्टफलप्रदा” । अत्र मघा नोक्ता । अथ भौमो मङ्गुलवारो निषिद्धः अर्थात् सूर्यचन्द्रबुधगुरुशुक्रशनीनां वारेषु वीजोप्तिः शुवा । अत्र विनायागे द्वितीया द्वामेन्द्रश्रुतिवारुणेषु कुजे वीजोप्तिव्येवहारतत्त्वे उक्तत्वात् नेष्टा कृषिरित्यतो नकारोऽत्रानुवर्त्तते तेन वीजोप्तिर्नेष्टेत्यर्थः । अत्र कालविशेषनिषेधो राजमा- र्त्तण्डे “रवौ रौद्राद्यपादस्थे भूमेः संजायते रजः । तस्माद्दिनत्रयं तत्र वीजवापं परित्यजेत्” इति । अथ वीजोप्तौ फणिचक्रमुच्यते । अगुभतो न विद्यन्ते गावः किरणा यस्यासावगुः यस्य स्वरूपाभावः तस्य कुतस्तरां किरणाः तादृशोऽगूराहुस्तस्य भं नक्षत्रं तस्मादित्यर्थः । राह्वधिष्ठितनक्षत्रादष्टौ भानि असदसमीचीनानि तत- स्त्रीणि शुभानि तत एकमशुभं ततस्त्रीणि शुभानि ततो- ऽप्येकमशुभं ततस्त्रीणि शुभानि ततोऽप्येकमशुभं तत- स्त्रीणि शुभानि ततश्चत्वार्यशुभानि । एवं वीजोप्तौ सप्त- विंशतिनक्षत्राणां शुभाशुभत्वमुक्तं उक्तञ्च नारदेन “भवेद्भ त्रितयं मूर्घ्नि धान्यनाशाय राहुभात् । गले त्रयं कज्ज- लाय वृद्ध्यै द्वादश चोदरे । निस्तण्डुलत्वं लाङ्गूले भ चतुष्टयमीरितम् । नाशो बहिःपञ्चके स्याद्वीजोप्ता विति चिन्तयेदिति । राहुर्यास्मिन् ऋक्षेऽस्ति तस्मान्नक्षत्र त्रयं मूर्घ्नि मस्तके स्थाप्यं धान्यनाशकरं भवति । तत- स्त्रयं गले ख्याप्यं कज्जलाय श्यामिकासंपादकं स्यात् । ततो द्वादश भानि बहिर्नक्षत्ररहितानि उदरे स्थाप्यानि तानि धान्यवृद्धये स्युः ततो नक्षत्रचतुष्टयं पुच्छे निस्तण्डु- लत्वकरं स्यात् ततोऽवशिष्टं बहिर्नक्षजपञ्चकं धान्यनाश- करं स्यात् । रत्नमालायानपि “मूर्ध्नि त्रीणि गले त्रयं च जठरे धिष्ण्यानि च द्वादश स्थात् पुच्छे च चतुष्टयं बहिरतो भानां स्थितं पञ्चकम् । क्ष्वेडं कज्जलमन्न- वृद्धिरधिकानिस्तण्डुलत्वं क्रमात् स्यादीतिप्रभवं भयं च फणिभाद्वीजाप्तिकाले स्फुटम्” इति । अत्र के- चित् फणिभात् सूर्यनक्षत्रादिति व्याचख्युस्तत्र युक्तिः “सूर्यभादुरगः स्थाप्यः” इति स्वरोदयवाक्यैकवा- क्यभावात् । तत्र नारदवाक्ये साक्षाद्राहुभादित्युक्तत्वात् “राहुधिष्ण्याव समारभ्य धिष्ण्येष्वष्टसु निष्फलमिति” कश्यपोक्तेश्च । “सूर्यभादुरगः स्थाप्यः” इति तु स्वरोदय- वचनं देशभेदव्यवस्थितम् । बीजवापने लग्नशुद्धिमाह वसिष्ठः “भवरिपुसहजे पापैस्त्रिकोणकेन्द्रस्थितैश्च शुभैः । कथितेषु च धिष्ण्येष्वपि शुभलग्ने बीजवापनं कार्य- मिति” पी० धा० ।


शब्दकल्पद्रुमः

वीजवपनं || क्ली (वीजानां वपनम् ।)
क्षेत्रे वीजस्य क्षेपणम् । तस्य दिनं दीपिकायाम् । “पूर्व्वाग्नियाम्यफणिपित्र्यशिवान्यभेषु रिक्ताष्टमीविगतचन्द्रतिथिं विहाय । द्व्यङ्गालिगोसमुदये विकुजार्किवारे शस्तेन्दुयोगकरणेषु हलप्रवाहः ॥” हलप्रवाहवद्वीजवपनस्य विधिः स्मृतः । चित्रायाञ्च शुभे केन्द्रे स्थिरस्वमनुजोदये ॥ हेमवारिविलिप्तस्य वीजस्योन्नयतः शुचिः । इन्द्रं चित्ते निधायाथ स्वयं मुष्टित्रयं वपेत् ॥ कृत्वा चान्योन्यप्रोत्साहं नर्त्तको हृष्टमानसः । प्राङ्मुखः कलसं गृह्य इमं मन्त्रमुदोरयेत् ॥ त्वं वै वसुन्धरे सीते बहुपुष्पफलप्रदे । नमस्ते मे शुभं नित्यं कृषिं मेधां शुभे कुरु ॥ रोहन्तु सर्व्वशस्यानि काले देवः प्रवर्षतु । कर्षकास्तु भवन्त्वग्र्या धान्येन च धनेन च स्वाहा ॥ उप्त्वा वीजन्तु तत्रैव भोक्तव्यं बान्धवैः सह । वीजवपनं प्राजापत्यतीर्थेन । यथा, हारीतः । कनिष्ठायाः पश्चात् प्राजापत्यमावपनम् । होम- तर्पणे प्राजापत्येन कुर्य्यादिति । होमतर्पणे लाजहोमशनकादितर्पणे । पराशरः । “वैशाखे वपनं श्रेष्ठं मध्यमं रोहिणीरवौ । अतः परस्मिन्नधमं न जातु श्रावणे शुभम् ॥” ज्योतिषे । “पूर्व्वभाद्रपदा मूलं रोहिण्युत्तरफल्गुनी । विशाखा शतभिषा वाथ धान्यानां रोपणे वरा ॥ सदोप्त्वा रजनीं नीलीं पुत्त्रवित्तैर्वियुज्यते । स्वयंजाते पुनस्ते द्वे पालयन् नैव दुष्यति ॥ आरामे गृहमध्ये वा मोहात् सर्षपमावपन् । पराभवं रिपोर्याति ससाधनधनक्षयम् ॥ निशा नीली पलाशश्च चिञ्चा श्वेतापराजिता । कोविदारश्च सर्व्वत्र सर्व्वं निघ्नन्ति मङ्गलम् ॥” निशा हरिद्रा । कोविदारको रक्तकाञ्चनः । “हेमाम्भसा वृक्षवीजं स्नातो मन्त्रेण रोपयेत् । वसुधेति सुशीतेति पुण्यदेति धरेति च । नमस्ते शुभगे नित्यं द्रुमोऽयं वर्द्धतामिति ॥” इति ज्योतिस्तत्त्वम् ॥



Correction: