संस्कृत-शब्दकोशः

वीजवृक्ष वीजसू

वीजसञ्चय

वाचस्पत्यम्

वीजसञ्चय ||‍ पु० वीजानां वपनयोग्यधान्थादीनां सञ्चयः सं- प्रहः सम् + चि—अच । वपनयोग्यधान्थादिसंग्रहे । “हस्ताचित्रादितिस्वातिरेवत्यां श्रवणद्वये । स्थिरे लग्ने गुरौ शुक्रे वीजं धार्य्यं ज्ञवासरे । माधे वा फाल्- गुने वापि सर्ववीजानि सञ्चयेत् । शोषयेत्तापयेद्रौद्रे रात्रौ चोपनिधापयेत् । ततश्च पुटिकां बद्ध्वा शोषयेच्च पुनःपुनः । स्थापयेच्च प्रयत्नेन यथा भूमिञ्च न स्पृशेत् । दीपाग्निना च संस्पृष्टं वृष्ट्या चोपहतञ्च यत् । वर्ज- नीयं तथा वीजं यत् स्यात् कीटसमन्वितम्” ज्यो० त० ।


शब्दकल्पद्रुमः

वीजसञ्चयः || पुं, (वीजानां सञ्चयः ।)
वीजसंग्रहः । तच्छुभाशुभदिनादिर्यथा, —
“हस्ताचित्रादितिस्वातीरेवत्यां श्रवणद्वये । स्थिरे लग्ने गुरौ शुक्रे वीजं धार्य्यं ज्ञवासरे ॥ माघे वा फाल्गुने वापि सर्व्ववीजानि संग्रहेत् । शोषयेत्तापयेद्रौद्रे रात्रौ चोपनिधापयेत् ॥ ततश्च पुटिकां बद्ध्वा शोषयेच्च पुनः पुनः । स्थापयेच्च प्रयत्नेन यथा भूमिञ्च न स्पृशेत् ॥ दीपाग्निना च संस्पृष्टं वृष्ट्या चोपहतञ्च यत् । वर्ज्रनीयं तथा बीजं यत् स्यात् कीटसमन्वि- तम् ॥ * ॥
याम्याहिरुद्राग्निविशाखपूर्व्वा- माहेन्द्रपित्र्येतरभैः शुभाहे । धान्यादिसंस्थापनमेषु शस्तं मृगस्थिरद्व्यङ्गगृहोदयेषु ॥ सौम्यादितिमघाज्येष्ठात्र्युत्तरेषु च कारयेत् । मीने लग्ने शुभे चन्द्रे निधनक्रूरवर्ज्जिते ॥ क्षेप्तव्यं कोष्ठके धान्यं गर्गो वदति सर्व्वदा । धनदाय सर्व्वलोकहिताय देहि मे धान्यं स्वाहा । नम ईहायै ईहादेवी सर्व्वलोकविवर्द्धनी काम- रूपिणि धान्यं देहि स्वाहा । लेखयित्वा इमं मन्त्रं धान्यागारे विनिक्षिपेत् ॥” पुराणसर्व्वस्वे । “मन्त्रं लिखित्वा पत्रे च मध्ये धान्यस्य धारयेत् । पत्रञ्च धान्यराशेस्तु मूषिकादिनिवृत्तये ॥ दक्षिणदिङ्मुखगमनं स्यादभिनवासु नारीषु । व्ययमपि शस्यफलानां न बुधो बुधवासरे कुर्य्यात् ॥ त्रिषूत्तरेषु रेवत्यां धनिष्ठावारुणेषु च । एतेषु षट्षु विज्ञेयं धान्यनिष्क्रयणं बुधैः ॥ श्रवणात्रयं विशाखाध्रुवपौष्णपुनर्व्वसूनि पुष्यश्च । अश्विन्यथ ज्येष्ठा धनधान्यविवर्द्धिनी कथिता ॥” इति ज्योतिस्तत्तम् ॥



Correction: