संस्कृत-शब्दकोशः

वीजसू वीजाकृत

वीजस्थापन

वाचस्पत्यम्

वीजस्थापन ||‍ ६ त० । धान्यादिस्थापने तन्मुहूर्त्तादिकं ज्यो० त० उक्तम् “याम्याग्निरुद्राहिविशाखपूर्वमाहेन्द्रपित्र्ये- तरभैः शुभाहे । धान्यादिसंस्थापनमेष शस्तं मृगस्थिर- द्व्यङ्गगृहोदयेषु । सौम्यादितिमघाज्येष्ठात्र्युत्तरेषु च कारयेत् । मीने लग्ने शुभे चन्द्रे निधने क्रूरवर्जिते । क्षेप्तव्यं कोष्ठके धान्यं गर्गो वदति सर्वदा” ।



Correction: