वाचस्पत्यम्
वीजिन् || पु० वीजमस्त्यस्य इनि । १ उत्पादके पितरि हेमच० २ वीजविशिष्टे त्रि० स्त्रियां ङीप् ।
शब्दकल्पद्रुमः
वीजी || [न्] पुं, (वीजमस्त्यस्येति । वीज + इनिः ।)
पिता । इति हेमचन्द्रः ॥ (यथा, उद्वाहतत्त्वे । “अतएव द्वैतनिणयेऽपि सापिण्ड्यगणने वीजिन- मारभ्येत्युक्तम् ॥” यथा च गोतमसंहितायाम् । ४ । १ । “असमानप्रवरैर्व्विवाह ऊर्द्धं सप्तमात् पितृ- बन्धुभ्यो वीजिनश्च मातृबन्धुभ्यः पञ्चमात् ॥”)
वीजविशिष्टे, त्रि ॥ (यथा, मनौ । ९ । ५१ । “तथैवाक्षेत्त्रिणो वीजं परक्षेत्रप्रवापिणः । कुर्व्वन्ति क्षेत्रिणामर्थं न वीजी लभते फलम् ॥”)