वाचस्पत्यम्
वीटि(टी) || स्त्री वि + इट—इन् वा ङीप् । (पानेर वीडा) सज्जितताम्बूले । स्वार्थे क । वीटिका तत्रैव । “कञ्चु- लिकाग्रन्थो च “तद्वीटिकासंस्पृशि” सा० द० ।
शब्दकल्पद्रुमः
वीटिः || स्त्री (विशेषेण एटति छायानिखात- यष्ट्यादिं वेष्टयित्वा प्रवर्द्धते । वि + इट + “इगु- पधात् कित् ।” उणा० ४ । ११९ । इति इन् । स च कित् ।)
ताम्बूलवल्ली । इति केचित् ॥ सुसज्जीकृतताम्बूलम् । पानेर वीडा इति भाषा । इति केचित् ॥