शब्दकल्पद्रुमः
वीटिका || स्त्री (वीटिरेव । स्वार्थे कन् स्त्रियामाप् ।)
ताम्बूलवल्ली । इति केचित् ॥ सुसज्जीकृतताम्बू- लम् । पानेर वीडि इति भाषा । इति केचित् ॥ (यथा, राजतरङ्गिण्याम् । ४ । ४३० । “भ्रूसंज्ञयासि कस्य त्वं पृष्टाया इति सुभ्रुवः । ददन्त्या वीटिकास्तस्या वृत्तान्तमुपलब्धवान् ॥”)