संस्कृत-शब्दकोशः

वीटी वीणादण्ड

वीणा

वाचस्पत्यम्

वीणा ||‍ स्त्री अज—नक् वीभावः पृषो० णत्वम् । स्वनामख्याते १ वाद्यभेदे अमरः । वाद्यशब्दे दृश्यम् । २ विद्युति मेदि०


शब्दकल्पद्रुमः

वीणा || स्त्री (वेति दृष्टिमात्रमपगच्छतीति । वी गतौ + “रास्नासास्नास्थूणावीणाः ।” उणा० ३ । १५ । इति नः निपातनाद्गुणाभावो णत्वञ्च ।)
विद्युत् । इति मेदिनी । णे, २८ ॥ (वेति श्रोतुश्चित्तं व्याप्नोतीति । वी व्याप्तौ + नः ।)
स्वनामख्यातवाद्यम् । तत्पर्य्यायः । वल्लकी २ विपञ्ची ३ । सा तु सप्ततन्त्रीयुक्ता चेत्परिवा- दिनी ४ । इत्यमरः ॥ ध्वनिमाला ५ । इति जटाधरः । वङ्गमल्ली ६ विपञ्चिका ७ । इति शब्दरत्नावली ॥ घोषवती ८ कण्ठकूणिका ९ । (यथा, महाभारते । ९ । १३४ । १४ । “सप्तर्षयः सप्त चाप्यर्हणानि सप्ततन्त्री प्रथिता चैव वीणा ॥”)
तद्भदा यथा । शिवस्य वीणा लम्बी १ सरस्वत्याः कच्छपी २ नारदस्य महती ३ गणानां प्रभा- वती ४ विश्वावसोः बृहती ५ तुम्बुरोः कला- वती ६ चाण्डालानां कण्डोलवीणा चाण्डालिका च ७ । तस्याङ्गादीनां नामादि यथा । तस्याः कायः कोलम्बकः । तस्या निबन्धनं उपनाहः । तस्या दण्डः प्रबालः । तस्याः प्रान्तवक्रकाष्ठं ककुभः प्रसेवकश्च । तस्या मूले वंशशलाका कलिका कूणिकापि च । तस्या वादनं कोणः । इति हेमचन्द्रादयः ॥ अस्या विवरणं वाद्यशब्दे द्रष्टव्यम् ॥



Correction: