संस्कृत-शब्दकोशः

वीतंस वीतिहोत्र

वीति

वाचस्पत्यम्

वीति ||‍ स्त्री वी—क्तिन् । १ गतौ २ दीप्तौ ३ भोजने ४ प्रजनने ५ धारणे च मेदि० ।


शब्दकल्पद्रुमः

वीतिः || पुं, घोटकः । इति हेमचन्द्रः ॥ (यथा, राजतरङ्गिण्याम् । ७ । ३७७ । “अस्मिंस्तु वीतिमारूढे वीतिहोत्रसमे नृपे । कस्त्राता च त्वदीयानां तृणानामिव शस्त्रि- णाम् ॥”)


शब्दकल्पद्रुमः

वीतिः || स्त्री (वयनमिति । वी + क्तिन् ।)
गतिः । दीप्तिः । (यथा, गो० रामायणे । २ । १०० । ४७ । “सुवर्णवीतिप्रतिमाः पद्मकिञ्जल्कसप्रभाः । दिव्या विंशति साहस्राः कुवेरप्रहिताः स्त्रियः ॥”)
प्रजनम् । अशनम् । धावनम् । इति मेदिनी । ते, ५९ ॥ (पानम् । यथा, ऋग्वेदे । ७ । ६८ । २ । “प्रवामन्धांसि मद्यान्यस्थुररं गन्तं हविषो वीतये मे ॥” “हविषो वीतये पानाय ।” इति तद्भाष्ये सायणः ॥ प्राप्तिः । यथा, ऋग्वेदे । ३ । १३ । ४ । “स नः शर्म्माणि वीतयेऽग्निर्यच्छतु शन्तमा ॥” “वीतये सम्भजनाय अग्निहोत्रादिकर्म्म प्राप्त्य- र्थम् ।” इति तद्भाष्ये सायणः ॥ यज्ञः । यथा, ऋग्वेदे । ९ । १ । ४ । “अभ्यर्षमहानां देवानां वीतिमन्धसा ॥” “वीतिं यज्ञं अन्धसा धानाद्यन्नेन सह अभ्यर्ष अभिगच्छ ।” इति तद्भाष्ये सायणः ॥)



Correction: