वाचस्पत्यम्
वीथ्यङ्ग || पु० वीथ्या इवाङ्गमस्य । १ दृश्यकाव्यभेदे । ६ त० । २ तदङ्गे वीथिशब्दे दृश्यम् ।
शब्दकल्पद्रुमः
वीथ्यङ्गः || त्रि (वीथ्या अङ्गमिवाङ्गं यस्य ।) नाटकभेदः । इति हेमचन्द्रः ॥ अस्य विवरणं वीथीशब्दे द्रष्टव्यम् ॥