संस्कृत-शब्दकोशः

वीथ्यङ्ग वीनावादक

वीध्र

वाचस्पत्यम्

वीध्र ||‍ त्रि० वि—इन्ध—रक् । १ निर्मले २ नभसि ३ वायौ ४ अग्नौ संक्षिप्तसा० ।


शब्दकल्पद्रुमः

वीध्रं || क्ली (विशेषेण इन्धते दीप्यते इति । वि + इन्ध + “वाविन्धेः ।” उणा० २ । २६ । इति क्रन् ।)
नभः । (यथा, अथर्व्ववेदे । ४ । २० । ७ । “वीध्रे सूर्य्यमिव सर्पन्तं मा पिशाचं तिर- स्करः ॥”)
वायुः । अग्निः । इति संक्षिप्तसारोणादि- वृत्तिः ॥


शब्दकल्पद्रुमः

वीध्रः || त्रि (वि + इन्ध + क्रन् ।)
विमलः । इत्यमरः ॥



Correction: