वाचस्पत्यम्
वीनाह is an alternate of विनाह. वि(वी)नाह || पु० वि + नह—घञ वा उपसर्गदीर्घः । कूपमुखपिधाने शब्दच० ।
वाचस्पत्यम्
वीनाह || पु० वि—नह घञ् दीर्घः । कूपादिमुखबन्धनसाधने (पाट) ख्याते पदार्थे अमरः ।
शब्दकल्पद्रुमः
वीनाहः || पुं, (विशेषेण नह्यते इति । वि + नह + घञ् । उपसर्गस्य दीर्घः ।)
कूपस्य मुखबन्ध- नम् । इत्यमरः ॥ अस्य कूपस्य यन्मुखबन्धनं येन मुखं वध्यते तत्र वीनाहः नान्दीपट्ट इति ख्यातः । विशेषेण नह्यते कूपमुखमनेन । वीनाहः । नह्य ञौ बन्धे घञ् मनीषादित्वान् वेर्व्वा दीर्घः विनाहः वीनाहः कूपमुखबन्ध- पट्ट इति साञ्झः । इति भरतः ॥