वाचस्पत्यम्
वीरक || पु० कि + ईर—ण्वुल् । करवीरे राजनि० ।
शब्दकल्पद्रुमः
वीरकः || पुं, (वीर एव । स्वार्थे कन् ।)
करवीरः । इति राजनिर्घण्टः ॥ (विक्रान्तः । समर्थः । यथा, ऋग्वेदे । ८ । ८० । २ । “असौ य एषि वीरको गृहं गृहं विचाकशत् ॥” “वीरको वीरः समर्थस्त्वम् ।” इति तद्भाष्ये सायणः ॥ अपकृष्टदेशविशेषवासी । यथा, महाभारते । ८ । ४४ । ४२ । “कारस्करान् माहिषकान् कालिङ्गान् केरलां- स्तथा । कर्कोटकान् वीरकांश्च दुर्द्धर्म्मांश्च विवर्ज्जयेत् ॥” चाक्षुषमन्वन्तरीयमुन्यन्यतमः । यथा, भाग- वते । ८ । ५ । ८ । “मुनयस्तत्र वै राजन् हर्य्यस्मद्वीरकादयः ॥”)