वाचस्पत्यम्
वीर || न० वीर—अच् । १ शृङ्गिणि २ नडे मेदि० ३ गरिचे ४ पद्म- मूले ५ काञ्चिके ६ उशीरे ७ आरूके राजनि० । ८ शौर्य्यवि- शिष्टे शूरे त्रि० अमरः । ९ जिने १० नटे पु० हेमच० । ११ विष्णौ पु० विष्णुस० । तन्त्रोक्ते १२ कुलाचारयुते त्रि० कुलाचारशब्दे पृ० दृश्यम् । १३ तण्डुलीये १४ वराहकन्दे १५ लताकरञ्जे १६ करवीरे १७ अर्जुने पु० राजनि० १८ यज्ञाग्नौ भरतः वीरहा । १९ उत्तरे २० सुभटे च मेदि० । २१ श्रेष्ठे त्रि० हेमच० । २२ पत्यौ २३ पुत्रे च “अवीरा निष्पति सुता” अमरः । २३ रसभेदे “उत्तमप्रकृतिर्वीर उत्साहस्थायिभावकः । महेन्द्रदैवतो हेमवर्णोऽयं सम- दाहृतः । आलम्बनविभावास्तु विजेतव्यादयो मताः । विजेतव्यादिचेष्टाद्यास्तस्योद्दीपनरूपिणः । अनुभावास्तु तत्र स्युः सहायान्वेषणादयः । सञ्चारिणस्तु धृतिमति- गर्वस्मृतितर्करोमञ्चाः । स च दानधर्मयुद्धैर्दयथा च समन्वितश्चतुर्द्धा स्यात्” । स च वीरः । दानवीरो धर्म- वीरा दयावीरो भुद्धवीरश्चेति चतुर्विधः” सा० द० ३ प० ।
शब्दकल्पद्रुमः
वीरं || क्ली (अज् + “स्फायितञ्चिवञ्चीति ।” उणा० १ । १३ । इत्यादिना रक् । अजे- र्वीभावः । वीर + अच् वा ।)
शृङ्गी । नडः । इति मेदिनी । रे, ६७ ॥ मरिचम् । पुष्कर- मूलम् । काञ्जिकम् । उशीरम् । आरूकम् । इति राजनिर्घण्टः ॥ वीरशब्दो मेदिन्यां पव- र्गीयवकारादौ दृष्टोऽपि वीरधातोरन्तःस्थवका- रादौ दर्शनादत्र लिखितः ॥
शब्दकल्पद्रुमः
वीर || ङ त् क शीर्य्ये । इति कविकल्पद्रुमः ॥ (अदन्तचुरा०-आत्म०-अक०-सेट् ।)
ङ, अवि- वीरत । शौर्य्यमुद्यमः । इति दुर्गादासः ॥
शब्दकल्पद्रुमः
वीरः || त्रि श्रेष्ठः । इति हेमचन्द्रः ॥ (कर्म्मठः । यथा, ऋग्वेदे । ८ । २३ । १९ । “इमं धा वीरो अमृतं वीरं कृण्वीतमर्त्त्यः ॥” “वीरः कर्म्मणि समर्थः ।” इति तद्भाष्ये सायणः ॥ यथा च । तत्रैव । ६ । २३ । ३ । “कर्त्ता वीराय सुष्वय उलोकं दाता वसु स्तुवते कीरये चित् ॥” “वीराय यज्ञादि कर्म्मसु दक्षाय ।” इति तद्भाष्ये सायणः ॥ प्रेरयिता । यथा, तत्रैव । ६ । ६५ । ४ । “इदा हि वो विधते रत्नमस्तीदा वीराय दाशुष उषासः ॥” “वीराय प्रेरयित्रे ।” इति तद्भाष्ये सायणः ॥)
शब्दकल्पद्रुमः
वीरः || पुं, (वीरयतीति । वीर विक्रान्तौ + पचा- द्यच् । यद्वा, विशेषेण ईरयति दूरीकरोति शत्रून् । वि + ईर + इगुपधात् कः । यद्वा, अजति क्षिपति शत्रून् । अज + स्फायितञ्चीत्या दिना रक् । अजेर्व्वीः ।)
शौर्य्यविशिष्टः । तत्प- र्य्यायः । शूरः २ विक्रान्तः ३ । इत्यमरः । २ । ८ । ७७ ॥ गण्डीरः ४ तरस्वी ५ । इति जटाधरः ॥ (यथा, महाभारते । १ । १४१ । ४५ । “मृगराजो वृकश्चैव बुद्धिमानपि मूषिकः । निर्ज्जिता यत्त्वया वीरास्तस्माद्वीरतरो भवान् ॥” यथा च ऋग्वेदे । १ । ११४ । ८ । “वीरान्मानो रुद्रभामितो वधी- र्हविष्यन्तः सद्मि त्वा हवामहे ॥” “वीरान् वीक्रान्तान् ।” इति सायणः ॥ पुत्त्रः । यथा, ऋग्वेदे । ५ । २० । ४ । “वीरैः स्याम सधमादः ॥” “वीरैः पुत्त्रैश्च सधमादः सहमाद्यन्तः स्याम तथा कुरु ।” इति तद्भाष्ये सायणः ॥ * ॥
पतिः । पुत्त्रश्च । यथा, मार्कण्डेये । ३५ । ३१ । “न चालपेज्जनद्विष्टां वीरहीनां तथा स्त्रियम् । गृहादुच्छिष्टविण्मूत्रपादाम्भांसि क्षिपेद्बहिः ॥” यथा च अवीरा निष्पतिसुता । इत्यमरदर्श- नाच्च ॥ * ॥
दनायुदैत्यपुत्त्रः । यथा, महाभारते । १ । ६५ । ३३ । “दनायुषः पुनः पुत्त्राश्चत्त्वारोऽसुरपुङ्गवाः । विक्षरो बलवीरौच वृत्रश्चैव महासुरः ॥”)
जिनः । नटः । इति हेमचन्द्रः ॥ विष्णुः । यथा, वीरोऽनन्तो धनञ्जयः । इति विष्णु सहस्रनाम ॥ शृङ्गाराद्यष्टरसान्तर्गतरसविशेषः । तत्पर्य्यायः । उत्साहवर्द्धनः २ । इत्यमरः ॥ “उत्तमप्रकृतिर्वीर उत्साहस्थायिभावकः । महेन्द्रदैवतो हेमवर्णोऽयं समुदाहृतः ॥” उत्साहं वर्द्धयति इति उत्साहवर्द्धनः नन्द्यादि- त्वादनः । दानधर्म्मयुद्धेषु जीवानपेक्षोत्साह- कारी रसो वीरः । वीरयन्ते अत्र वीरः । वीर तङ्कत् शौर्य्ये घञ् स्फीततयैव स्वाद्यते इति सर्व्व- रसलक्षणं कटाक्षितम् । इति भरतः ॥ * ॥
तान्त्रिकभावविशेषः । यथा, —
“तत्रैव त्रिविधो भावो दिव्यवीरपशुक्रमः । दिव्यवीरैकजः प्रोक्तः सर्व्वसिद्धिप्रदायकः ॥” इति रुद्रयामले ११ पटलः ॥ अपि च । “भावस्तु त्रिविधः प्रोक्तो दिव्यवीरपशुक्रमात् । गुरवश्च त्रिधा चात्र तथैव मन्त्रदेवता ॥” इति तत्रैव ६ पटलः ॥ अन्यच्च । “पशुभावं हि प्रथमे द्बितीये वीरभावकम् । तृतीये दिव्यभावञ्च इति भावत्रयं क्रमात् ॥ आदौ दशमदण्डेन पशुभावमथापि वा । मध्याह्ने दशदण्डेन वीरभावमुदाहृतम् । सायाह्ने दशदण्डे तु दिव्यभावं शुभप्रदम् ॥” इति च तत्रैव ११ पटलः ॥ अन्यच्च । “जन्ममात्रं पशुभावं वर्षषोडशकावधि । ततश्च वीरभावस्तु यावत् पञ्चाशतो भवेत् ॥ द्वितीयांशे वीरभावस्तृतीये दिव्यभावकः । एवं भावत्रयेणैव भावमैक्यं भवेत् प्रिये ॥” इति वामकेश्वरतन्त्रे ५१ पटलः ॥ वीराचारविशिष्टः । यथा, —
“कुलाचाररतो वीरः कुलसङ्गी सदा भवेत् । संविदासेवनं कुर्य्यात् सोमपानं महेश्वरि ॥ सर्व्वथा कुरुते देवि वीरश्चोद्धतमानसः । दिव्यस्तु देवता प्रायश्चन्दनागुरुलेपनैः । रक्तचन्दनगन्धैश्च सुदिग्धो नात्र संशयः ॥ भस्माङ्गधूसरो वीर उन्मत्तवद्विचेष्टितः । सुरापाणरतो नित्यं वलिपूजापरायणः ॥ नरश्छागश्च महिषो मेषः शूकर एव च । शशकः शल्लकी गोधा खड्गी कूर्म्मी दश स्मृताः ॥ वानरश्च खरश्चैव गजाश्वादिविहङ्गमाः । इत्यादिभिर्व्वलेर्दानैः पूजयेत् स्वेष्टदेवताम् ॥ सिद्धमन्त्रो भवेत् वीरो न वीरो मद्यपानतः । कलौ तु भारते वर्षे लोका भारतवासिनः । गृहे गृहे सुरां पीत्वा वर्णभ्रष्टा भवन्ति हि ॥” इत्युत्पत्तितन्त्रम् ॥ * ॥
कलौ तदाचारनिषेधो यथा, —
“दिव्यवीरमयो भावः कलौ नास्ति कदाचन । केवलं पशुभावेन मन्त्रसिद्धिर्भवेन्नृणाम् ॥” इति महानिर्व्वाणतन्त्रम् ॥ * ॥
तण्डुलीयः । वराहकन्दः । लताकरञ्जः । करवीरः । अर्ज्जुनः । इति राजनिर्घण्टः ॥ यज्ञाग्निः । इति वीरहाशब्दटीकायां भरतः ॥ उत्तरः । सुभटः । इति मेदिनी ॥