संस्कृत-शब्दकोशः

वीरजयन्तिका वीरतर

वीरण

वाचस्पत्यम्

वीरण ||‍ वि + ईर्—ल्यु । उशीर (वेणारमूल) शब्दच० ।


शब्दकल्पद्रुमः

वीरणं || क्ली उशीरतृणम् । तत्पर्य्यायः । वीरणम् २ कटायनम् ३ । इति शब्दरत्नावली ॥ वीरतरम् ४ । इत्यमरः ॥ वीरभद्रम् ५ । इति रुद्रः ॥ (यथा, भागवते । १० । ११ । ५१ । “तमापतन्तं स निगृह्य तुण्डयोः दोर्भ्यां वकं कंससखं सतां गतिः । पश्यत्सु बालेषु ददार लीलया मुदावहो वीरणवद्दिवौकसाम् ॥”)
अपि च । “स्याद्वीरणं वीरतरु वीरञ्च बहुमूलकम् । वीरणं पाचनं शीतं स्तम्भनं लघु तिक्तकम् ॥ मधुरं ज्वरनुद्वान्तिमेदजित् कफपित्तहृत् । तृष्णास्रविषवीसर्पकृच्छ्रदाहव्रणापहम् ॥ वीरणस्य तु मूलं स्यादुशीरमभयं तथा । अमृणालञ्च सेव्यञ्च समगन्धिकमित्यपि ॥ उशीरं पाचनं शीतं स्तम्भनं लघु तिक्तकम् । मधुरं ज्वरकृद्वान्तिमदनुत् कफपित्तनुत् । तृषास्रविषवीसर्पदाहकृच्छ्रव्रणापहम् ॥” इति भावप्रकाशः ॥ (पुं, प्रजापतिविशेषः । यथा, महाभारते । १२ । ३४८ । ४१ । “सनत्कुमारादपि च वीरणो वै प्रजापतिः । कृतादौ कुरुशार्द्दूल धर्म्ममेतदधीतवान् ॥” यथा च मात्स्ये । ४ । ४० । “वीरणस्यात्मजायान्तु चक्षुर्म्मनुमजीजनत् ॥”)



Correction: